|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.114. अध्यायः 114
Mahabharata - Adi Parva - Chapter Topics
सत्यवत्या स्वस्मिन्कन्यात्वावस्थायां व्यासोत्पत्तिकथनम्॥ 1 ॥
स्मरणमात्रादागतेन व्यासेन सह सत्यवत्याः संवादः॥ 2 ॥
व्यासेन अम्बिकाम्बालिकलोः पुत्रोत्पादनाङ्गीकारः॥ 3 ॥
Mahabharata - Adi Parva - Chapter Text
भीष्म उवाच। 1-114-0x(691)(5073)
पुनर्भरतवंशस्य हेतुं सन्तानवृद्धये।
वक्ष्यामि नियतं मातस्तन्मे निगदतः शृणु॥ 1-114-1(5074)
ब्राह्मणो गुणवान्कश्चिद्धनेनोपनिमन्त्र्यताम्।
विचित्रवीर्यक्षेत्रेषु यः समुत्पादयेत्प्रजाः॥ 1-114-2(5075)
`वैशम्पायन उवाच। 1-114-3x(692)
भीष्मस्य तु वचः श्रुत्वा धर्महेत्वर्थसंहितम्।
माता सत्यवती भीष्मं पुनरेवाभ्यभाषत॥ 1-114-3(5076)
औचथ्यमधिकृत्येदमङ्गं च यदुदाहृतम्।
पौराणी श्रुतिरित्येषा प्राप्तकालमिदं कुरु॥ 1-114-4(5077)
त्वं हि पुत्र कुलस्यास्य ज्येष्ठः श्रेष्ठश्च भारत।
यथा च ते पितुर्वाक्यं मम कार्यं तथाऽनघ॥ 1-114-5(5078)
मम पुत्रस्तव भ्राता यवीयान्सुप्रियश्च ते।
बाल एव गतः स्वर्गं भारतो भरतर्षभ॥ 1-114-6(5079)
इमे महिष्यौ तस्येह काशिराजसुते उभे।
रूपयौवनसंपन्ने पुत्रकामे च भारत॥ 1-114-7(5080)
धर्म्यमेतत्परं ज्ञात्वा सन्तानाय कुलस्य च।
आभ्यां मम नियोगात्तु धर्मं चरितुमर्हसि॥ 1-114-8(5081)
भीष्म उवाच। 1-114-9x(693)
असंशयं परो धर्मस्त्वयाः मातः प्रकीर्तितः।
त्वमप्येतां प्रतिज्ञां तु वेत्थ या मयि वर्तते॥ 1-114-9(5082)
अमरत्वस्य वा हेतोस्त्रैलोक्यसदनस्य वा।
उत्सृजेयमहं प्राणान्न तु सत्यं कथंचन॥ 1-114-10(5083)
सत्यवत्युवाच। 1-114-11x(694)
जानामि त्वयि धर्मज्ञ सत्यं सत्यपराक्रम।
इच्छंस्त्वमिह लोकांस्त्रीन्सृजेरन्यानरिन्दम॥ 1-114-11(5084)
यथा तु नः कुलं चैव धर्मश्च न पराभवेत्।
सुहृदश्च प्रहृष्टाः स्युस्तथा त्वं कर्तुमर्हसि॥ 1-114-12(5085)
भीष्म उवाच। 1-114-13x(695)
त्वमेव कुलवृद्धासि गौरवं तु परं त्वयि।
सोपायं कुलसन्ताने वक्तुमर्हसि नः परम्॥ 1-114-13(5086)
स्त्रियो हि परमं गुह्यं धारयन्ति सदा कुले।
पुरुषांश्चैव मायाभिर्बह्वीभिरुपगृह्णते॥ 1-114-14(5087)
सा सत्यवति संपश्य धर्मं सत्यपरायणे।
यथा न जह्यां सत्यं च न सीदेच्च कुलं हि नः॥' 1-114-15(5088)
वैशम्पायन उवाच। 1-114-16x(696)
ततः सत्यवती भीष्मं वाचा संसज्जमानया।
विहसन्तीव सव्रीडमिदं वचनमब्रवीत्॥ 1-114-16(5089)
सत्यमेतन्महाबाहो यथा वदसि भारत।
विश्वासात्ते प्रवक्ष्यामि सन्तानाय कुलस्य नः॥ 1-114-17(5090)
न ते शक्यमनाख्यातुमापद्धर्मं तथाविधम्।
त्वमेव नः कुले धर्मस्त्वं सत्यं त्वं परा गतिः॥ 1-114-18(5091)
`यत्त्वं वक्ष्यसि तत्कार्यमस्माभिरिति मे मतिः।'
तस्मान्निशम्य सत्यं मे कुरुष्व यदनन्तरम्।
`शृणु भीष्म वचो मह्यं धर्मार्थसहितं हितम्॥ 1-114-19(5092)
न च विस्रम्भकथितं भवान्सूचितुमर्हति।
यस्तु राजा वसुर्नाम श्रुतस्ते भरतर्षभ॥ 1-114-20(5093)
तस्य शुक्लादहं मत्स्या धृता कुक्षौ पुरा किल।
मातरं मे जलाद्धृत्वा दाशः परमधर्मवित्॥ 1-114-21(5094)
मां तु स्वगृहमानीय दुहितृत्वेऽभ्यकल्पयत्।
धर्मयुक्तः स धर्मेण पिता चासीत्ततो मम॥' 1-114-22(5095)
धर्मयुक्तस्य धर्मार्थं पितुरासीत्तरी मम।
सा कदाचिदहं तत्र गता प्रथमयौवनम्॥ 1-114-23(5096)
अथ धर्मविदां श्रेष्ठः परमर्षिः पराशरः।
आजगाम तरीं धीमांस्तरिष्यन्यमुनां नदीम्॥ 1-114-24(5097)
स तार्यमाणो यमुनां मामुपेत्याब्रवीत्तदा।
सान्त्वपूर्वं मुनिश्रेष्ठः कामार्तो मधुरं वचः।
उक्त्वा जन्म कुलं मह्यं नासि दाशसुतेति च॥ 1-114-25(5098)
तमहं शापभीता च पितुर्भीता च भारत।
वरैरसुलभैरुक्ता न प्रत्याख्यातुमुत्सहे॥ 1-114-26(5099)
`प्रेक्ष्य तांस्तु महाभागान्पारावारे ऋषीन्स्थितान्।
यमुनातीरविन्यस्तान्प्रदीप्तानिव पावकान्॥ 1-114-27(5100)
पुरस्तादरुणश्चैव तरुणः संप्रकाशते।
येनैषा ताम्रवस्त्रेव द्यौः कृता प्रविजृम्भिता॥ 1-114-28(5101)
उक्तमात्रो मया तत्र नीहारमसृजत्प्रभुः।
पराशरः सत्यधृतिर्द्वीपे च यमुनाम्भसि॥' 1-114-29(5102)
अभिभूय स मां बालां तेजसा वशमानयत्।
तमसा लोकमावृत्य नौगतामेव भारत॥ 1-114-30(5103)
मत्स्यगन्धो महानासीत्पुरा मम जुगुप्सितः।
तमपास्य शुभं गन्धमिमं प्रादात्स मे मुनिः॥ 1-114-31(5104)
ततो मामाह स मुनिर्गर्भमुत्सृज्य मामकम्।
द्वोपेऽस्या एव सरितः कन्यैव त्वं भविष्यसि॥ 1-114-32(5105)
कन्यात्वं च ददौ प्रीतः पुनर्विद्वांस्तपोधनः।
तस्य वीर्यमहं दृष्ट्वा तथा युक्तं महात्मनः॥ 1-114-33(5106)
विस्मिता व्यथिता चैव प्रादामात्मानमेव च।
ततस्तदा महात्मा स कन्यायां मयि भारत।
प्रहृष्टोऽजनयत्पुत्रं द्वीप एव पराशरः॥' 1-114-34(5107)
पाराशर्यो महायोगी स बभूव महानृषिः।
कन्यापुत्रो मम पुरा द्वैपायन इति श्रुतः॥ 1-114-35(5108)
यो व्यस्य वेदांश्चतुरस्तपसा भगवानृषिः।
लोके व्यासत्वमापेदे कार्ष्ण्यात्कृष्णत्वमेव च॥ 1-114-36(5109)
सत्यवादी शमपरस्तपस्वी दग्धकिल्बिषः।
सद्योत्पन्नः स तु महान्सह पित्रा ततो गतः॥ 1-114-37(5110)
स नियुक्तो मया व्यक्तं त्वया चाप्रतिमद्युतिः।
भ्रातुः क्षेत्रेषु कल्याणमपत्यं जनयिष्यति॥ 1-114-38(5111)
स हि मामुक्तवांस्तत्र स्मरेः कृच्छ्रेषु मामिति।
तं स्मरिष्ये महाबाहो यदि भीष्म त्वमिच्छसि॥ 1-114-39(5112)
तव ह्यनुमते भीष्म नियतं स महातपाः।
विचित्रवीर्यक्षेत्रेषु पुत्रानुत्पादयिष्यति॥ 1-114-40(5113)
वैशम्पायन उवाच। 1-114-41x(697)
महर्षेः कीर्तने तस्य भीष्मः प्राञ्जलिरब्रवीत्।
`देशकालौ च जानासि क्रियतामर्थसिद्धये।' 1-114-41(5114)
धर्ममर्थं च कामं च त्रीनेतान्योनुपश्यति॥ 1-114-41x(698)
अर्थमर्थानुबन्धं च धर्मं धर्मानुबन्धनम्।
कामं कामानुबन्धं च विपरीतान्पृथक्पृथक्॥ 1-114-42(5115)
यो विचिन्त्य धिया धीरो व्यवस्यति स बुद्धिमान्।
तदिदं धर्मयुक्तं च हितं चैव कुलस्य नः॥ 1-114-43(5116)
उक्तं भवत्या यच्छ्रेयस्तन्मह्यं रोचते भृशम्। 1-114-44(5117)
वैशम्पायन उवाच।
ततस्तस्मिन्प्रतिज्ञाते भीष्मेण कुरुनन्दन॥ 1-114-44x(699)
कृष्णद्वैपायनं काली चिन्तयामास वै मुनिम्।
स वेदान्विब्रुवन्धीमान्मातुर्विज्ञाय चिन्तितम्॥ 1-114-45(5118)
प्रादुर्बभूवाविदितः क्षणेन कुरुनन्दन।
तस्मै पूजां ततः कृत्वा सुताय विधिपूर्वकम्॥ 1-114-46(5119)
परिष्वज्य च बाहुभ्यां प्रस्रवैरभ्यषिञ्चत।
मुमोच बाष्पं दाशेयी पुत्रं दृष्ट्वा चिरस्य तु॥ 1-114-47(5120)
तामद्भिः परिषिच्यार्तां महर्षिरभिवाद्य च।
मातरं पूर्वजः पुत्रो व्यासो वचनमब्रवीत्॥ 1-114-48(5121)
भवत्या यदभिप्रेतं तदहं कर्तुमागतः।
शाधि मां धर्मतत्त्वज्ञे करवाणि प्रियं तव॥ 1-114-49(5122)
तस्मै पूजां ततोऽकार्षीत्पुरोधाः परमर्षये।
स च तां प्रतिजग्राह विधिमन्मन्त्रपूर्वकम्॥ 1-114-50(5123)
पूजितो मन्त्रपूर्वं तु विधिवत्प्रीतिमाप सः।
तमासनगतं माता पृष्ट्वा कुशलमव्ययम्॥ 1-114-51(5124)
सत्यवत्यथ वीक्ष्यैनमुवाचेदमनन्तरम्।
मातापित्रोः प्रजायन्ते पुत्राः साधारणाः कवे॥ 1-114-52(5125)
तेषां पिता यथा स्वीमी तथा माता न संशयः।
विधानविहितः स त्वं यथा मे प्रथमः सुतः॥ 1-114-53(5126)
विचित्रवीर्यो ब्रह्मर्षे तथा मेऽवरजः सुतः।
यथैव पितृतो भीष्मस्तथा त्वमपि मातृतः॥ 1-114-54(5127)
भ्राता विचित्रवीर्यस्य यथा वा पुत्र मन्यसे।
अयं शान्तनवः सत्यं पालयन्सत्यविक्रमः॥ 1-114-55(5128)
बुद्धिं न कुरुतेऽपत्ये तथा राज्याऽनुशासने।
स त्वं व्यपेक्षया भ्रातुः सन्तानाय कुलस्य च॥ 1-114-56(5129)
भीष्मस्य चास्य वचनान्नियोगाच्च ममानघ।
अनुक्रोशाच्च भूतानां सर्वेषां रक्षणाय च॥ 1-114-57(5130)
आनृशंस्याच्च यद्ब्रूयां तच्छ्रुत्वा कर्तुमर्हसि।
यवीयसस्व भ्रातुर्भार्ये सुरसुतोपमे॥ 1-114-58(5131)
रूपयौवनसंपन्ने पुत्रकामे च धर्मतः।
तयोरुत्पादयापत्यं समर्थो ह्यसि पुत्रक॥ 1-114-59(5132)
अनुरूपं कुलस्यास्य संतत्याः प्रसवस्य च। 1-114-60(5133)
व्यास उवाच।
वेत्थ धर्मं सत्यवति परं चापरमेव च॥ 1-114-60x(700)
तथा तव महाप्राज्ञे धर्मे प्रणिहिता मतिः।
तस्मादहं त्वन्नियोगाद्धर्ममुद्दिश्य कारणम्॥ 1-114-61(5134)
ईप्सितं ते करिष्यामि दृष्टं ह्येतत्सनातनम्।
भ्रातुः पुत्रान्प्रदास्यामि मित्रावरुणयोः समान्॥ 1-114-62(5135)
व्रतं चरेतां ते देव्यौ निर्दिष्टमिह यन्मया।
संवत्सरं यथान्यायं ततः शुद्धे भविष्यतः॥ 1-114-63(5136)
नहि मामव्रतोपेता उपेयात्काचिदङ्गना। 1-114-64(5137)
सत्यवत्युवाच।
सद्यो यथा प्रपद्येते देव्यौ गर्भं तथा कुरु॥ 1-114-64x(701)
अराजकेषु राष्ट्रेषु प्रजाऽनाथा विनश्यति।
नश्यन्ति च क्रियाः सर्वा नास्ति वृष्टिर्न देवता॥ 1-114-65(5138)
कथं चाराजकं राष्ट्रं शक्यं धारयितुं प्रभो।
तस्माद्गर्भं समाधत्स्व भीष्मः संवर्धयिष्यति॥ 1-114-66(5139)
व्यास उवाच। 1-114-67x(702)
यदि पुत्रः प्रदातव्यो मया भ्रातुरकालिकः।
विरूपतां मे सहतां तयोरेतत्परं व्रतम्॥ 1-114-67(5140)
यदि मे सहते गन्धं रूपं वेषं तथा वपुः।
अद्यैव गर्भं कौसल्या विशिष्टं प्रतिपद्यताम्॥ 1-114-68(5141)
`तस्यापि च शतं पुत्रा भवितारो न संशयः।
गोप्तारः कुरुवंशस्य भवत्याः शोकनाशनाः॥' 1-114-69(5142)
वैशम्पायन उवाच। 1-114-70x(703)
एवमुक्त्वा महातेजा व्यासः सत्यवतीं तदा।
शयने सा च कौसल्या शुचिवस्त्रा ह्यलङ्कृता॥ 1-114-70(5143)
समागमनमाकाङ्क्षेदिति सोऽन्तर्हितो मुनिः।
ततोऽभिगम्य सा देवी स्नुषां रहसि संगताम्॥ 1-114-71(5144)
धर्म्यमर्थसमायुक्तमुवाच वचनं हितम्।
कौसल्ये धर्मतन्त्रं त्वां यद्ब्रवीमि निबोध तत्॥ 1-114-72(5145)
भरतानां समुच्छेदो व्यक्तं मद्भाग्यसंक्षयात्।
व्यथितां मां च संप्रेक्ष्य पितृवंशं च पीडितम्॥ 1-114-73(5146)
भीष्मो बुद्धिमदान्मह्यं कुलस्यास्य विवृद्धये।
सा च बुद्धिस्त्वय्यधीना पुत्रि प्रापय मां तथा॥ 1-114-74(5147)
नष्टं च भारतं वंशं पुनरेव समुद्धऱ।
पुत्रं जनय सुश्रोणि देवराजसमप्रभम्॥ 1-114-75(5148)
स हि राज्यधुरं गुर्वीमुद्वक्ष्यति कुलस्य नः।
`एवमुक्त्वा तु सा देवी स्नुषां सत्यवती तदा॥' 1-114-76(5149)
सा धर्मतोऽनुनीयैनां कथंचिद्धर्मचारिणीम्।
भोजयामास विप्रांश्च देवर्षीनतिथींस्तथा॥ ॥ 1-114-77(5150)
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि चतुर्दशाधिकशततमोऽध्यायः॥ 114 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-114-16 संसज्जमानया स्खलनवत्या॥ 1-114-17 विश्वासादन्तरङ्गत्वबुद्धेः। संतानाय विस्ताराय॥ 1-114-18 आपद्धर्ममवेक्ष्येति शेषः॥ 1-114-38 व्यक्तं निःसंशयम्॥ 1-114-42 अनुबध्यतेऽनेनेत्यनुबन्धः फलं॥ 1-114-45 काली सत्यवती॥ 1-114-47 प्रस्रवैः स्नेहस्रुतस्तनैः॥ 1-114-53 विधानविहितः पूर्वपुण्यप्रसूतः॥ 1-114-56 व्यपेक्षया स्नेहानुबन्धेन॥ 1-114-58 आनृशंस्यादनैष्ठुर्यात्॥ 1-114-63 देव्यौ राजभार्ये॥ 1-114-74 यथा भीष्मेणोक्तं तथा मां प्रापय इष्टार्थेन योजय॥ 1-114-76 उद्वक्ष्यति धुरं धुर उद्वहनंम करिष्यति॥ चतुर्दशाधिकशततमोऽध्यायः॥ 114 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|